ऋषि खोजें

ऋग्वेद में वृहदुक्थो वामदेव्यः के 29 संदर्भ मिले

तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् । प्रावो देवाँ आतिरो दासमोज: प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥


यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ॥


चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति । त्वमङ्ग तानि विश्वानि वित्से येभि: कर्माणि मघवञ्चकर्थ ॥


त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि । काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥


यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन्मधुना सं मधूनि । अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि ॥


दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै । उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातु: पुत्रान्मघवन्तित्विषाणः ॥


महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् । प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥


ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥


युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् । पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥


इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशने तन्व१श्चारुरेधि प्रियो देवानां परमे जनित्रे ॥


तनूष्टे वाजिन्तन्वं१ नयन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् । अह्रुतो महो धरुणाय देवान्दिवीव ज्योति: स्वमा मिमीयाः ॥


वाज्यसि वाजिनेना सुवेनीः सुवितः स्तोमं सुवितो दिवं गाः । सुवितो धर्म प्रथमानु सत्या सुवितो देवान्त्सुवितोऽनु पत्म ॥


महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुम् । समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशु: पुन: ॥


सहोभिर्विश्वं परि चक्रमू रज: पूर्वा धामान्यमिता मिमानाः । तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥


द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा । स्वां प्रजां पितर: पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥


नावा न क्षोद: प्रदिश: पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा । स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु ॥


न तमंहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विष: ॥


तद्धि वयं वृणीमहे वरुण मित्रार्यमन् । येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विष: ॥


ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा । नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विष: ॥


यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा । युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विष: ॥


आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विष: ॥


नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा । अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विष: ॥


शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विष: ॥


यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्व१स्मन्मुञ्चता व्यंह: प्र तार्यग्ने प्रतरं न आयु: ॥