देवता खोजें

ऋग्वेद में मरूतः के 148 संदर्भ मिले

मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः। यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम्। अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥


तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम्। यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे॥


प्र यन्तु वाजास्तविषीभिरग्नयः शुभे संमिश्लाः पृषतीरयुक्षत। बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः॥


अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम्। ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः॥


व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे। पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः॥


प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत्। न येषामिरी सधस्थ ईष्ट आ अग्नयो न स्वविद्युतः प्र स्पन्द्रासो धुनीनाम् ॥३॥


स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत्। यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥४॥


स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत्। येना सहन्त ऋञ्जत स्वरोचिषः स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥५॥


अपारो वो महिमा वृद्धशवसस्त्वेषं शवोऽवत्वेवयामरुत्। स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥६॥


ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्वेवयामरुत्। दीर्घं पृथु पप्रथे सद्म पार्थिवं येषामज्मेष्वा महः शर्धांस्यद्भुतैनसाम् ॥७॥


अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत्। विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो३ न दंसनाप द्वेषांसि सनुतः ॥८॥


गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत्। ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥९॥


अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुष: । सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥


श्रिये मर्यासो अञ्जीँरकृण्वत सुमारुतं न पूर्वीरति क्षप: । दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः ॥


प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्य: । पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥


युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति । विश्वप्सुर्यज्ञो अर्वागयं सु व: प्रयस्वन्तो न सत्राच आ गत ॥


यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु । श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुष: ॥


प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्व: । विदानासो वसवो राध्यस्याराच्चिद्द्वेष: सनुतर्युयोत ॥


ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥


विप्रासो न मन्मभिः स्वाध्यो देवाव्यो३ न यज्ञैः स्वप्नसः । राजानो न चित्राः सुसंदृश: क्षितीनां न मर्या अरेपस: ॥


अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुज: सद्यऊतयः । प्रज्ञातारो न ज्येष्ठा: सुनीतय: सुशर्माणो न सोमा ऋतं यते ॥


वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिण: । वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसा: सुरातय: ॥


रथानां न ये३ऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभ: ॥


उषसां न केतवोऽध्वरश्रिय: शुभंयवो नाञ्जिभिर्व्यश्वितन् । सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥


सुभागान्नो देवाः कृणुता सुरत्नानस्मान्त्स्तोतॄन्मरुतो वावृधानाः । अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति ॥