अस्ति॒ हि ष्मा॒ मदा॑य वः॒ स्मसि॑ ष्मा व॒यमे॑षाम् । विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥
asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām | viśvaṁ cid āyur jīvase ||
अस्ति॑ । हि । स्म॒ । मदा॑य । वः॒ । स्मसि॑ । स्म॒ । व॒यम् । ए॒षा॒म् । विश्व॑म् । चि॒त् । आयुः॑ । जी॒वसे॑॥
स्वामी दयानन्द सरस्वती
फिर वे वायु किस-२ प्रयोजन के लिये हैं, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(अस्ति) वर्त्तते (हि) यतः (स्म) खलु। अत्र निपातस्य च इति दीर्घः। अविहितलक्षणो मूर्द्धन्यः सुषामादिषु द्रष्टव्यः। अ० ८।३।९८। इति वार्त्तिकेन मूर्द्धन्यादेशः। इदं पदं सायणाचार्येण व्याकरणविषयमबुद्ध्वा त्यक्तम्। (मदाय) आनन्दाय (वः) युष्माकम् (स्मसि) भवेम। अत्र लिङर्थे लट्। इदन्तोमसि* इतीकारागमः (स्म) तैरन्तर्ये। अत्रापि पूर्ववन्मूर्द्धन्यादेशः। (वयम्) उपदेश्या जनाः (एषाम्) ज्ञातविद्यानां मरुतां सकाशात् (विश्वम्) सर्वम् (चित्) अपि (आयुः) प्राणधारणम् (जीवसे) जीवितुम्। अत्र तुमर्थे०¤ इत्यसेन्प्रत्ययः ॥१५॥ *[अ० ७।१।४६।] ¤[अ० ३।४।९।]
पुनस्ते वायवः किं प्रयोजनाः सन्तीत्युपदिश्यते।