यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते । वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभिः॑ ॥
yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate | vi taṁ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ ||
यु॒ष्माइ॑षि॑तः । म॒रु॒तः॒ । मर्त्य॑इषितः । आ । यः । नः॒ । अभ्वः॑ । ईष॑ते । वि । तम् । यु॒यो॒त॒ । शव॑सा । वि । ओज॑सा । वि । यु॒ष्माका॑भिः । ऊ॒तिभिः॑॥
स्वामी दयानन्द सरस्वती
फिर तुमको उनसे क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(युष्मेषितः) यो युष्माभिर्जेतुमिषितः सः। अत्र छान्दसो वर्णलोपो वा इति दकारलोपः। इमं सुगमपक्षं विहाय सायणाचार्येण प्रत्ययलक्षणादिकोलाहलः कृतः (मरुतः) ऋत्विजः। मरुत इति ऋत्विङ् नामसु पठितम्। निघं० ३।१८। (मर्त्येषितः) मर्त्यैः सेनास्थैरितरैश्चेषितो विजयः (आ) समन्तात् यः शत्रुः (नः) अस्मान् (अभ्वः) यो विरोधी मित्रो न भवति सः (ईषते) हिनस्ति (वि) विगतार्थे (तम्) शत्रुम् (युयोत) पृथक् कुरुत। अत्र बहुलं छन्दसि इति शपः श्लुः। तप्तनप्तन० इति तबादेशः। (शवसा) बलयुक्तसैन्येन (वि) विविधार्थे (ओजसा) पराक्रमेण (वि) विशिष्टार्थे (युष्माकाभिः) युस्माभिरनुकंपिताभिः सेनाभिः (ऊतिभिः) रक्षाप्रीतितृप्त्यवगमप्रवेशयुक्ताभिः ॥८॥
पुनः युष्माभिस्तेभ्यः किं साधनीयमित्युपदिश्यते।