आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे । गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥
ā vo makṣū tanāya kaṁ rudrā avo vṛṇīmahe | gantā nūnaṁ no vasā yathā puretthā kaṇvāya bibhyuṣe ||
आ । वः॒ । म॒क्षु । तना॑य । कम् । रुद्राः॑ । अवः॑ । वृ॒णी॒म॒हे॒ । गन्त॑ । नू॒नम् । नः॒ । अव॑स् ॒यथा॑ । पु॒रा । इ॒त्था । कण्वा॑य । बि॒भ्युषे॑॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हों, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(आ) समन्तात् (वः) युष्माकम् (मक्षु) शीघ्रम्। ऋचितुनुघमक्षु०। इतिदीर्घः। (तनाय) यः सर्वस्मै सद्विद्या धर्मोपदेशेन सुखानि तनोति तस्मै। अत्र बाहुलकादौणादिकोऽन् प्रत्ययः। इदं सायणाचार्येण पचाद्यजित्यशुद्धं व्याख्यातम्। कुतोऽच् स्वराभावेन ञ्नित्यादिर्नित्यम् इत्याद्युदात्तस्याभिहितत्वात् (कम्) सुखम्। कमिति सुखनामसु पठितम्। निघं० ३।६। (रुद्राः) दुष्टरोदनकारकाश्चतुश्चत्वारिंशद्वर्षकृतब्रह्मचर्यविद्याः (अवः) अवन्ति येन तद्रक्षणादिकम् (वृणीमहे) स्वीकुर्महे (गन्त) प्राप्नुत। अत्र द्व्यचोतस्तिङ इति दीर्घः। बहुलंछन्दसि इति शपो लुक्। तप्तनप्तन०। इति तत्रादेशः। (नूनम्) निश्चितार्थे (नः) (अस्मभ्यम्) (अवसा) रक्षणादिना (यथा) येन प्रकारेण (पुरा) पूर्वं पुराकल्पे वा (इत्था) अनेन प्रकारेण (कण्वाय) मेधाविने (विभ्युषे) भयं प्राप्ताय ॥७॥
पुनस्ते कीदृशा भवेयुरित्युपदिश्यते।