SEARCH DEVATA

We found 33 references of विष्णुः in Rigveda!

तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुष:। यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥


चतुर्भि: साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत्। बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमार: प्रत्येत्याहवम् ॥


भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथा:। अधा ते विष्णो विदुषा चिदर्ध्य: स्तोमो यज्ञश्च राध्यो हविष्मता ॥