प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मय: । वनानि महिषा इव ॥
ऋग्वेद में त्रितः के 69 संदर्भ मिले
प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मय: । वनानि महिषा इव ॥
अभि द्रोणानि बभ्रव: शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥
सुता इन्द्राय वायवे वरुणाय मरुद्भ्य: । सोमा अर्षन्ति विष्णवे ॥
तिस्रो वाच उदीरते गावो मिमन्ति धेनव: । हरिरेति कनिक्रदत् ॥
अभि ब्रह्मीरनूषत यह्वीॠतस्य मातर: । मर्मृज्यन्ते दिवः शिशुम् ॥
रायः समुद्राँश्चतुरोऽस्मभ्यं सोम विश्वत: । आ पवस्व सहस्रिण: ॥
प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति । रुजद्दृळ्हा व्योजसा ॥
सुत इन्द्राय वायवे वरुणाय मरुद्भ्य: । सोमो अर्षति विष्णवे ॥
वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः । दुहन्ति शक्मना पय: ॥
भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः । सं रूपैरज्यते हरि: ॥
अभीमृतस्य विष्टपं दुहते पृश्निमातरः । चारु प्रियतमं हविः ॥
समेनमह्रुता इमा गिरो अर्षन्ति सस्रुत: । धेनूर्वाश्रो अवीवशत् ॥
क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् । विश्वा परि प्रिया भुवदध द्विता ॥
उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदम् । यज्ञस्य सप्त धामभिरध प्रियम् ॥
त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् । मिमीते अस्य योजना वि सुक्रतु: ॥
जज्ञानं सप्त मातरो वेधामशासत श्रिये । अयं ध्रुवो रयीणां चिकेत यत् ॥
अस्य व्रते सजोषसो विश्वे देवासो अद्रुह: । स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥
यमी गर्भमृतावृधो दृशे चारुमजीजनन् । कविं मंहिष्ठमध्वरे पुरुस्पृहम् ॥
समीचीने अभि त्मना यह्वी ऋतस्य मातरा । तन्वाना यज्ञमानुषग्यदञ्जते ॥
क्रत्वा शुक्रेभिरक्षभिॠणोरप व्रजं दिवः । हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥
अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् । अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । चित्रः शिशु: परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥
विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् । आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥
अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नै: । ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥
होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् । प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्व१ग्निमतिथिं जनानाम् ॥
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः । अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥
आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥
पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँॠतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥
वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा । स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् । अग्निर्विद्वान्त्स यजात्सेदु होता सो अध्वरान्त्स ऋतून्कल्पयाति ॥
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभि: कल्पयाति ॥
यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥
विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षा स्पार्हा इष: क्षुमतीर्विश्वजन्याः ॥
यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि । चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥
कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥
अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्यु: शिवस्य । ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे ॥
स्वना न यस्य भामास: पवन्ते रोचमानस्य बृहतः सुदिव: । ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥
अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भि: । प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ॥
स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः । अग्निः सुतुक: सुतुकेभिरश्वै रभस्वद्भी रभस्वाँ एह गम्याः ॥
प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् ॥
यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ । दूतो देवानामसि मर्त्यानामन्तर्महाँश्चरसि रोचनेन ॥
शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना । धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः ॥
मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से । शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पति: सन् ॥
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः । अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ता: ॥
तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् । इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गै: ॥
ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् । रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो३ अप्रयुच्छन् ॥
एक: समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे । सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥
समानं नीळं वृषणो वसाना: सं जग्मिरे महिषा अर्वतीभिः । ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥
ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती । विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्त: ॥
ऋतस्य हि वर्तनय: सुजातमिषो वाजाय प्रदिव: सचन्ते । अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥
सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् । अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य ॥
सप्त मर्यादा: कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् । आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥
असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे । अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ । ज्येष्ठेभिर्यो भानुभिॠषूणां पर्येति परिवीतो विभावा ॥
यो भानुभिर्विभावा विभात्यग्निर्देवेभिॠतावाजस्रः । आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्ति: ॥
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ । आ यस्मिन्मना हवींष्यग्नावरिष्टरथः स्कभ्नाति शूषैः ॥
शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति । मन्द्रो होता स जुह्वा३ यजिष्ठ: सम्मिश्लो अग्निरा जिघर्ति देवान् ॥
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् । आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥
सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वा: सप्तीवन्त एवै: । अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥
अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ । तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमा: ॥
स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव । सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसै: ॥
इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राध: । यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभि: सुजात ॥
अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् । अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥
सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता । ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥
द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम् । बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ॥
स्वयं यजस्व दिवि देव देवान्किं ते पाक: कृणवदप्रचेताः । यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥
भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः । रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो३ अप्रयुच्छन् ॥