वांछित मन्त्र चुनें

स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः । अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥

अंग्रेज़ी लिप्यंतरण

sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ | aruṣo jātaḥ pada iḻāyāḥ purohito rājan yakṣīha devān ||

पद पाठ

सः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः । अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥ १०.१.६

ऋग्वेद » मण्डल:10» सूक्त:1» मन्त्र:6 | अष्टक:7» अध्याय:5» वर्ग:29» मन्त्र:6 | मण्डल:10» अनुवाक:1» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अध) और फिर (सः-तु-अग्निः) वह ही महान् अग्नि (पृथिव्याः-नाभा) अन्तरिक्ष के मध्य में (इळायाः पदे जातः-अरुषः) वृष्टि के प्राप्ति स्थान मेघ में विद्युद्रूप से प्रकट-रोचमान हुआ (पेशनानि वस्त्राणि वसानः) सुवर्णरूप-सुनहरी वस्त्रसदृश तिरछी साड़ी समान चमचमाती तरङ्ग को पहिनता हुआ (पुरः-हितः) सन्मुख-साक्षात् आकाश में रखा हुआ (राजन्) वर्षा की कामना का स्वामी तू (इह देवान् यक्षि) यहाँ मेघमण्डल में वायु आदि देवों को अपने में संयुक्त कर ॥६॥
भावार्थभाषाः - महान् अग्नि सूर्य आकाश में वर्षा के स्थान मेघ में विद्युद्रूप से प्रकट हो, चमचमाती तिरछी तरङ्गरूप साड़ी वस्त्र पहिना हुआ सा, वायु आदि देवों के सहयोग से वृष्टि का निमित्त बनता है। विद्यासूर्य विद्वान् विद्यालङ्कृत हुआ विद्या-स्थान में बैठकर प्रवचनामृत की वृष्टि करे ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अध) अथापि (सः-तु-अग्निः) स एव बृहन्-अग्निः सूर्यः (पृथिव्याः-नाभा) अन्तरिक्षस्य मध्ये “पृथिवी-अन्तरिक्षनाम” [निघ० १।३] “सुपां सुलुक् पूर्वसवर्णाच्छे”० [अष्टा० ७।१।३९] आकारादेशः “मध्यं वै नाभिः [श० १।१।२।२] (इळायाः पदे जातः-अरुषः) वृष्ट्याः पदे मेघे “वृष्टिर्वा इळा” [तै०सं० १।७।२।५] विद्युद्रूपेण जातो रोचमानः सन् (पेशनानि वस्त्राणि वसानः) हिरण्यानि सुवर्णरूपाणि “पेशः-हिरण्यनाम” [निघ० १।२] वस्त्राणि-वस्त्राणीव तरङ्गात्मकानि शाटीसदृशानि तिरश्चीनि परिदधानः (पुरः-हितः) साक्षात् खल्वाकाशे धृतः सन् (राजन्) त्वं वर्षाकामनायाः स्वामिन् ! (इह देवान् यक्षि) अस्मिन्मेघमण्डले वायुप्रभृतीन् देवान् स्वस्मिन् योजय वृष्टिनिपातनाय ॥६॥