ADVANCE SEARCH

Founded Results

  • We found 27 references of कृष्णा in Rigveda
  • We found 6 references of कृष्णा in Samveda
  • We found 12 references of कृष्णा in Atharvaveda
About 45 references of कृष्णा Page 1 of 3

Rigveda/1/35/4

Devata: सविता Rishi: हिरण्यस्तूप आङ्गिरसः Chhanda: विराट्त्रिष्टुप् Swara: धैवतः

अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥


Rigveda/1/62/9

Devata: इन्द्र: Rishi: नोधा गौतमः Chhanda: निचृदार्षीत्रिष्टुप् Swara: धैवतः

सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः। आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥


Rigveda/1/113/2

Devata: उषाः द्वितीयस्यार्द्धर्चस्य रात्रिरपि Rishi: कुत्स आङ्गिरसः Chhanda: स्वराट्पङ्क्ति Swara: पञ्चमः

रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः। समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥


Rigveda/1/113/14

Devata: उषाः द्वितीयस्यार्द्धर्चस्य रात्रिरपि Rishi: कुत्स आङ्गिरसः Chhanda: निचृत्पङ्क्ति Swara: पञ्चमः

व्य१ञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः। प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥


Rigveda/1/123/1

Devata: उषाः Rishi: दीर्घतमसः पुत्रः कक्षीवान् Chhanda: विराट्त्रिष्टुप् Swara: धैवतः

पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः। कृष्णादुदस्थादर्या३ विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥


Rigveda/1/123/9

Devata: उषाः Rishi: दीर्घतमसः पुत्रः कक्षीवान् Chhanda: विराट्त्रिष्टुप् Swara: धैवतः

जानत्यह्न: प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची। ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥


Rigveda/1/130/8

Devata: इन्द्र: Rishi: परुच्छेपो दैवोदासिः Chhanda: अष्टिः Swara: मध्यमः

इन्द्र: समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु। मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत्। दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥


Rigveda/1/141/8

Devata: अग्निः Rishi: दीर्घतमा औचथ्यः Chhanda: भुरिक्त्रिष्टुप् Swara: धैवतः

रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते। आदस्य ते कृष्णासो दक्षि सूरय: शूरस्येव त्वेषथादीषते वय: ॥


Rigveda/2/4/6

Devata: अग्निः Rishi: सोमाहुतिर्भार्गवः Chhanda: आर्षीपङ्क्ति Swara: पञ्चमः

आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत्। कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः॥


Rigveda/3/15/3

Devata: अग्निः Rishi: उत्कीलः कात्यः Chhanda: भुरिक्पङ्क्ति Swara: पञ्चमः

त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि। वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ॥


Rigveda/3/31/21

Devata: इन्द्र: Rishi: गाथिनो विश्वामित्रः, ऐषीरथीः कुशिको वा Chhanda: त्रिष्टुप् Swara: धैवतः

अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात्। प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः॥


Rigveda/4/3/9

Devata: अग्निः Rishi: वामदेवो गौतमः Chhanda: विराट्त्रिष्टुप् Swara: धैवतः

ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने। कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥९॥


Rigveda/4/16/13

Devata: इन्द्र: Rishi: वामदेवो गौतमः Chhanda: स्वराट्पङ्क्ति Swara: पञ्चमः

त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः। पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥१३॥


Rigveda/6/10/4

Devata: अग्निः Rishi: भरद्वाजो बार्हस्पत्यः Chhanda: आर्षीपङ्क्ति Swara: पञ्चमः

आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा। अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥४॥


Rigveda/6/47/21

Devata: इन्द्र: Rishi: गर्गः Chhanda: निचृत्त्रिष्टुप् Swara: धैवतः

दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः। अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥२१॥


Rigveda/6/60/10

Devata: इन्द्राग्नी Rishi: भरद्वाजो बार्हस्पत्यः Chhanda: गायत्री Swara: षड्जः

तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत्। कृष्णा कृणोति जिह्वया ॥१०॥


Rigveda/8/41/10

Devata: वरुणः Rishi: नाभाकः काण्वः Chhanda: निचृज्जगती Swara: निषादः

यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता । स धाम पूर्व्यं ममे यः स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥


Rigveda/8/43/6

Devata: अग्निः Rishi: विरूप आङ्गिरसः Chhanda: गायत्री Swara: षड्जः

कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । अग्निर्यद्रोधति क्षमि ॥


Rigveda/8/93/13

Devata: इन्द्र: Rishi: सुकक्षः Chhanda: निचृद्गायत्री Swara: षड्जः

त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पय: ॥


Rigveda/9/41/1

Devata: पवमानः सोमः Rishi: मेध्यातिथिः Chhanda: गायत्री Swara: षड्जः

प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्त: कृष्णामप त्वचम् ॥