रात्री व्यख्यदायती पुरुत्रा देव्य१क्षभि: । विश्वा अधि श्रियोऽधित ॥
We found 8 references of कुशिकः सौभरो, रात्रिर्वा भारद्वाजी in Rigveda!
रात्री व्यख्यदायती पुरुत्रा देव्य१क्षभि: । विश्वा अधि श्रियोऽधित ॥
ओर्वप्रा अमर्त्या निवतो देव्यु१द्वत: । ज्योतिषा बाधते तम: ॥
निरु स्वसारमस्कृतोषसं देव्यायती । अपेदु हासते तम: ॥
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि । वृक्षे न वसतिं वय: ॥
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिण: । नि श्येनासश्चिदर्थिन: ॥
यावया वृक्यं१ वृकं यवय स्तेनमूर्म्ये । अथा नः सुतरा भव ॥
उप मा पेपिशत्तम: कृष्णं व्यक्तमस्थित । उष ऋणेव यातय ॥
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः । रात्रि स्तोमं न जिग्युषे ॥