अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्य॒ꣳ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑। इ॒मा उ त्वा। यस्या॒यम्। अ॒यꣳ स॒हस्र॑म्। ऊ॒र्ध्वऽऊ॒ षु णः॑ ॥९७ ॥
अ॒स्य। इत्। इन्द्रः॑। वा॒वृ॒धे॒। व॒वृ॒ध॒ऽइति॑ ववृधे। वृष्ण्य॑म्। शवः॑। मदे॑। सु॒तस्य॑। विष्ण॑वि ॥ अ॒द्य। तम्। अ॒स्य॒ म॒हि॒मान॑म्। आ॒यवः॑। अनु॑। स्तु॒व॒न्ति॒। पू॒र्वथेति॑ पू॒र्वऽथा॑ ॥९७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब मनुष्यों को परमात्मा की स्तुति करना योग्य है, इस विषय को अगले मन्त्र में कहा है।
संस्कृत - स्वामी दयानन्द सरस्वती
अथ मनुष्यैः परमात्मा स्तोतव्य इत्युपदिश्यते ॥
(अस्य) संसारस्य (इत्) एव (इन्द्रः) परमश्वैर्य्ययुक्तो राजा (वावृधे) वर्द्धयति (वृष्ण्यम्) वृषा समर्थस्तस्येमम् (शवः) बलमुदकं वा। शव इति उदकनामसु पठितम् ॥ (निघं०१.१२) (मदे) आनन्दाय (सुतस्य) उत्पन्नस्य (विष्णवि) व्यापके परमेश्वरे। अत्र वाच्छन्दसीति घिसंज्ञाकार्य्याभावे गुणादेशेऽवादेशः। (अद्य) अत्र निपातस्य च [अ०६.३.१३६] इति दीर्घः। (तम्) (अस्य) परमात्मनः (महिमानम्) महत्त्वम् (आयवः) ये स्वकर्मफलानि यान्ति ते मनुष्याः। आयव इति मनुष्यनामसु पठितम् ॥ (निघं०२.३) (अनु) (स्तुवन्ति) प्रशंसन्ति (पूर्वथा) पूर्वे इव ॥९७ ॥