रेतो॒ मूत्रं॒ विज॑हाति॒ योनिं॑ प्रवि॒शदि॑न्द्रि॒यम्। गर्भो ज॒रायु॒णावृ॑त॒ऽउल्बं॑ जहाति॒ जन्म॑ना। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ꣳ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७६ ॥
रेतः॑। मूत्र॑म्। वि। ज॒हा॒ति॒। योनि॑म्। प्र॒वि॒शदिति॑ प्रऽवि॒शत्। इ॒न्द्रि॒यम्। गर्भः॑। ज॒रायु॑णा। आवृ॑त॒ इत्यावृ॑तः। उल्व॑म्। ज॒हा॒ति॒। जन्म॑ना। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑ ॥७६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
शरीर से वीर्य्य कैसे उत्पन्न होता है, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
शरीरात् कथं वीर्य्यमुत्पद्यत इत्याह ॥
(रेतः) वीर्यम् (मूत्रम्) प्रस्रावः (वि) (जहाति) (योनिम्) जन्मस्थानम् (प्रविशत्) प्रवेशं कुर्वत् सत् (इन्द्रियम्) उपस्थः पुरुषलिङ्गम् (गर्भः) यो गृह्यते सः (जरायुणा) बहिराच्छादनेन (आवृतः) (उल्वम्) आवरणम् (जहाति) त्यजति (जन्मना) प्रादुर्भावेन (ऋतेन) बहिस्थेन वायुना सह (सत्यम्) वर्त्तमाने साधु (इन्द्रियम्) जिह्वादिकम् (विपानम्) विविधं पानं येन तत् (शुक्रम्) पवित्रम् (अन्धसः) आवरणस्य (इन्द्रस्य) जीवस्य (इन्द्रियम्) धनम् (इदम्) (पयः) रसवत् (अमृतम्) नाशरहितम् (मधु) येन मन्यते तत् ॥७६ ॥