अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृꣳह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। ध॒र्त्रम॑सि॒ दिवं॑ दृꣳह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ऽउप॑दधामि॒ चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम् ॥१८॥
अग्ने॑। ब्रह्म॑। गृ॒भ्णी॒ष्व॒। ध॒रुण॑म्। अ॒सि॒। अ॒न्तरि॑क्षम्। दृ॒ꣳह॒। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑। द॒धा॒मि॒। भ्रातृ॑व्यस्य। व॒धाय॑। ध॒र्त्रम्। अ॒सि॒। दिव॑म्। दृ॒ꣳह॒। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑। द॒धा॒मि॒। भ्रातृ॑व्यस्य। व॒धाय॑। विश्वा॑भ्यः। त्वा॒। आशा॑भ्यः। उप॑। द॒धा॒मि॒। चितः॑। स्थ॒। ऊ॒र्ध्व॒चित॒ इत्यू॑र्ध्व॒ऽचि॒तः॑। भृगू॑णाम्। अङ्गि॑रसाम्। तप॑सा। त॒प्य॒ध्व॒म् ॥१८॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी अग्नि शब्द से अगले मन्त्र में फिर दोनों अर्थों का प्रकाश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरग्निशब्देनोक्तावर्थावुपदिश्येते ॥
(अग्ने) परमेश्वर भौतिको वा (ब्रह्म) वेदम् (गृभ्णीष्व) ग्राहय गृह्णाति वा। अत्र सर्वत्र पक्षे व्यत्ययः। हृग्रहोर्भश्छन्दसि (अष्टा꠶५।२।३२) इति हकारस्य भकारः (धरुणम्) धरति सर्वलोकान् यत्तत् तेजश्च (असि) अस्ति। अत्र पक्षे प्रथमार्थे मध्यमः (अन्तरिक्षम्) आकाशस्थान् पदार्थान्। अन्तरात्मस्थमक्षयं ज्ञानं वा। अन्तरिक्षं कस्मादन्तरा क्षान्तं भवत्यन्तरेमे इति वा शरीरेष्वन्तरक्षयमिति वा (निरु꠶२।१०) (दृंह) दृढीकुरु करोति वा (ब्रह्मवनि) वेदं वनयति तम् (त्वा) त्वाम् (क्षत्रवनि) राज्यं वनयति तम् (सजातवनि) समाना जाता विद्याः समानं जातं राज्यं वा वनयति तम् (उपदधामि) धारयामि [(भ्रातृव्यस्य) द्विषतः शत्रोः (वधाय) नाशाय हननाय] (धर्त्रम्) धरति यत् येन वा। वायुर्वाव धर्त्रं चतुष्टोमः। स आभिश्चतसृभिर्दिग्भिः स्तुते तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रम्। वायुरु सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूपमुपदधाति स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णाति (शत꠶८।२।१।१६)। अनेन प्रमाणेन धर्त्रशब्देन वायुरीश्वरश्च गृह्येते (असि) अस्ति वा (दिवम्) ज्ञानप्रकाशं सूर्य्यलोकं वा (दृंह) सम्यग्वर्धय, वर्धयति वा (ब्रह्मवनि) सर्वमनुष्यार्थं ब्रह्मणो वेदस्य विभाजितारम्। ब्रह्माण्डस्य मूर्त्तद्रव्यस्य प्रकाशकं वा (त्वा) त्वां तं वा (क्षत्रवनि) राजधर्मप्रकाशस्य विभाजितारं राजगुणानां दृष्टान्तेन प्रकाशयितारं वा (सजातवनि) समानान् जातान् वेदान् क्षत्रधर्मान् मूर्त्तान् जगत्स्थान् पदार्थान् वा वनयति प्रकाशयति तम् [(उपदधामि) धारयामि (भ्रातृव्यस्य) द्विषतः शत्रोः (वधाय) नाशाय हननाय वा] (विश्वाभ्यः) सर्वाभ्यः (त्वा) त्वां तं वा (आशाभ्यः) दिग्भ्यः। आशा इति दिङ्नामसु पठितम् (निघं꠶१।६)। (उपदधामि) उपदधाति वा सामीप्ये धारयामि तेन पुष्णामि वा (चितः) चेतयन्ति संजानन्ति ये ते चितः। अत्र वा शर्प्रकरणे खर्परे लोपो वक्तव्यः (अष्टा꠶वा꠶८.३.३६)। इति वार्त्तिकेन विसर्जनीयलोपः (स्थ) भवथ भवन्ति वा (ऊर्ध्वचितः) ऊर्ध्वानुत्कृष्टगुणान् चेतयन्ति ते मनुष्याश्चितानि कपालानि वा (भृगूणाम्) भृज्जन्ति यैस्तेषाम् (अङ्गिरसाम्) प्राणानामङ्गाराणां वा। प्राणो वा अङ्गिराः (शत꠶६।५।२।३) अङ्गारेष्वङ्गिरा अङ्गारा अङ्कना अञ्चनाः (निरु꠶३।१७)। (तपसा) धर्मविद्यानुऽष्ठानेन तापेन तेजसा वा (तप्यध्वम्) तपन्तु तापयत वा ॥ अयं मन्त्रः (शत꠶१।२।१।९-१३) व्याख्यातः ॥१८॥