वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

ब꣣लविज्ञायः꣡ स्थवि꣢꣯रः꣣ प्र꣡वी꣢रः꣣ स꣡ह꣢स्वान्वा꣣जी꣡ सह꣢꣯मान उ꣣ग्रः꣢ । अ꣣भि꣡वी꣢रो अ꣣भि꣡स꣢त्वा सहो꣣जा꣡ जैत्र꣢꣯मिन्द्र꣣ र꣢थ꣣मा꣡ ति꣢ष्ठ गो꣣वि꣢त् ॥१८५३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥१८५३॥

मन्त्र उच्चारण
पद पाठ

ब꣣लविज्ञायः꣢ । ब꣣ल । विज्ञायः꣢ । स्थ꣡वि꣢꣯रः । स्थ । वि꣣रः । प्र꣡वी꣢꣯रः । प्र । वी꣣रः । स꣡ह꣢꣯स्वान् । वा꣣जी꣢ । स꣡ह꣢꣯मानः । उ꣣ग्रः꣢ । अ꣣भि꣡वी꣢रः । अ꣣भि꣢ । वी꣢रः । अभि꣣स꣢त्वा । अ꣡भि꣢ । स꣣त्वा । सहोजाः꣢ । स꣣हः । जाः꣢ । जै꣡त्र꣢꣯म् । इ꣣न्द्र । र꣡थ꣢꣯म् । आ । ति꣣ष्ठ । गोवि꣢त् । गो꣣ । वित् ॥१८५३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1853 | (कौथोम) 9 » 3 » 2 » 2 | (रानायाणीय) 21 » 1 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर वही विषय है।

पदार्थान्वयभाषाः -

हे (इन्द्र) जीवात्मन् ! (बलविज्ञायः) ब्रह्मबल का ज्ञाता, (स्थविरः) अनुभव में वृद्ध, (प्रवीरः) अतिशय वीर, (सहस्वान्) उत्साही, (वाजी) विज्ञानवान् (सहमानः) सुख-दुःख आदि द्वन्द्वों को सहन करनेवाला, (उग्रः) प्रतापी, (अभिवीरः) मन, प्राण, आदि वीरों से युक्त, (सहोजाः) बल में प्रसिद्ध, (गोवित्) विवेक की किरणों को और श्रेष्ठ वाणियों को प्राप्त तू (जैत्रम्) विजयशील (रथम्) रथ पर (आतिष्ठ) बैठ ॥२॥

भावार्थभाषाः -

जैसे स्वयं वीर तथा वीर योद्धाओं से युक्त सेनापति जयशील रथ पर चढ़कर भयङ्कर युद्ध को भी जीत लेता है, वैसे ही वेदज्ञ, ब्रह्मज्ञ, सहनशील, मन-बुद्धि-प्राण आदि वीरों से युक्त, प्रभाववान्, प्रतापी, देह-रथ के अधिष्ठाता जीवात्मा को योग्य है कि अपने प्रौढ़ मनोबल से सभी बाह्य और आन्तरिक सङ्ग्रामों को जीत लेवे ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) जीवात्मन् ! (बलविज्ञायः) ब्रह्मबलस्य विज्ञः, (स्थविरः) अनुभववृद्धः, (प्रवीरः) प्रकृष्टो वीरः, (सहस्वान्) उत्साहवान्, (वाजी) विज्ञानवान्, (सहमानः) सुखदुःखादिद्वन्द्वानां सोढा, (उग्रः) प्रतापवान्, (अभिवीरः) अभिगता मनःप्राणादयो वीरा यस्य सः, (अभिसत्वा) अभिगतपराक्रमः, (सहोजाः) सहसा बलेन जातः प्रसिद्धः, (गोवित्) गाः विवेकरश्मीन् श्रेष्ठा वाचो वा विन्दति प्राप्नोति यः तादृशः त्वम् (जैत्रम्) जयशीलम् (रथम्) यानम् (आतिष्ठ) अधिरोह ॥२॥२

भावार्थभाषाः -

यथा स्वयं वीरो वीरैर्योद्धृभिर्युक्तश्च सेनापतिर्जयशीलं रथमधिष्ठाय भीषणमपि समरं जयति तथैव वेदविद् ब्रह्मवित् सहनशीलो मनोबुद्धिप्राणादिभिर्वीरैर्युक्तः प्रभाववान् प्रतापी देहरथस्याधिष्ठाता जीवात्मा प्रौढेन मनोबलेन सर्वानपि बाह्यानान्तरांश्च संग्रामान् जेतुमर्हति ॥२॥