वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: मेधातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

रे꣣वा꣢꣫ꣳ इद्रे꣣व꣡त꣢ स्तो꣣ता꣡ स्यात् त्वाव꣢꣯तो म꣣घो꣡नः꣢ । प्रे꣡दु꣢ हरिवः सु꣣त꣡स्य꣢ ॥१८०४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

रेवाꣳ इद्रेवत स्तोता स्यात् त्वावतो मघोनः । प्रेदु हरिवः सुतस्य ॥१८०४॥

मन्त्र उच्चारण
पद पाठ

रे꣣वा꣢न् । इत् । रे꣣व꣡तः꣢ । स्तो꣣ता꣢ । स्यात् । त्वा꣡व꣢꣯तः । म꣣घो꣢नः꣢ । प्र । इत् । उ꣣ । हरिवः । सुत꣡स्य꣢ ॥१८०४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1804 | (कौथोम) 9 » 1 » 15 » 1 | (रानायाणीय) 20 » 4 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (हरिवः) दोषों को हरनेवाले इन्द्र जगदीश्वर ! (सुतस्य) अन्तरात्मा में प्रकट किये गए, (रेवतः) ऐश्वर्यवान् (मघोनः) दानी (त्वावतः) आप जैसे ही आपका अर्थात् जिसके तुल्य या जिससे बढ़कर संसार में अन्य कोई नहीं है, ऐसे आपका (स्तोता) उपासक (इत् उ) अवश्यमेव (रेवान् इत्) ऐश्वर्यवान् ही (प्र स्यात्) होवे ॥१॥ ‘त्वावतः’ में अनन्वय अलङ्कार है। ‘रेवाँ इद् रेवतः स्तोता’ में समालङ्कार व्यङ्ग्य है ॥१॥

भावार्थभाषाः -

ऐश्वर्यवान् परमेश्वर अपने उपासक को भी ऐश्वर्यवान् कर देता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (हरिवः) दोषहरणगुणोपेत इन्द्र जगदीश्वर ! (सुतस्य) अन्तरात्मनि प्रकटीकृतस्य (रेवतः) ऐश्वर्यवतः (मघोनः) दानवतः (त्वावतः) त्वत्सदृशस्य तव (स्तोता) उपासकः (रेवान् इत्) ऐश्वर्यवानेव (इत् उ) अवश्यमेव ( प्र स्यात्) प्रजायेत। [हरिवः, हरिवन् ‘मतुवसो रु सम्बुद्धौ छन्दसि’ अ० ८।३।१ इति नकारस्य रुत्वम्। रेवतः, ‘रयेर्मतौ बहुलम्’ वा० ६।१।३४ इति रयेर्यकारस्य सम्प्रसारणम्। मघोनः, मंहतिर्दानकर्मा। निरु० १।६। त्वावतः, ‘युष्यदस्मदोः सादृश्ये वतुब् वाच्यः’ वा० ५।१।६१ इति सादृश्यार्थे वतुप्] ॥१॥ ‘त्वावतः त्वत्सदृशस्य तव’ इत्यत्रानन्वयालङ्कारः। ‘रेवाँ इद् रेवतः स्तोता’ इत्यत्र समालङ्कारो ध्वन्यते ॥१॥

भावार्थभाषाः -

ऐश्वर्यवान् जगदीश्वरः स्वोपासकमप्यैश्वर्यवन्तं करोति ॥१॥