वि꣣शो꣡वि꣢शो वो꣣ अ꣡ति꣢थिं वाज꣣य꣡न्तः꣢ पुरुप्रि꣣य꣢म् । अ꣣ग्निं꣢ वो꣣ दु꣢र्यं꣣ व꣡च꣢ स्तु꣣षे꣢ शू꣣ष꣢स्य꣣ म꣡न्म꣢भिः ॥१५६४॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥१५६४॥
वि꣣शो꣡वि꣢शः । वि꣣शः꣢ । वि꣣शः । वः । अ꣡ति꣢꣯थिम् । वा꣣जय꣡न्तः꣢ । पु꣣रु । प्रिय꣢म् । पु꣣रु । प्रिय꣢म् । अ꣣ग्नि꣢म् । वः꣣ । दु꣡र्य꣢꣯म् । दुः । य꣣म् । व꣡चः꣢꣯ । स्तु꣢षे꣢ । शू꣣ष꣡स्य꣢ । म꣡न्म꣢꣯भिः ॥१५६४॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र की व्याख्या पूर्वार्चिक में ८७ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ यज्ञाग्नि का वर्णन करते हैं।
हे मित्रो ! (वाजयन्तः) बल, आरोग्य और आध्यात्मिक ऐश्वर्य की कामना करते हुए (वः) तुम (विशः विशः) प्रत्येक मनुष्य के (अतिथिम्) अतिथि के समान सत्कार करने योग्य, (पुरुप्रियम्) बहुत प्यारे, (वः) तुम्हें (दुर्यम्) घर के समान शरण देनेवाले (अग्निम्) यज्ञाग्नि के प्रति (वचः) वचन को प्रेरित करो। मैं भी (शूषस्य) बलवान् ज्ञानी परमेश्वर के रचे हुए (मन्मभिः) वेदमन्त्रों से, यज्ञाग्नि की (स्तुषे) स्तुति करता हूँ ॥१॥
घर में आये हुए अतिथि के समान यज्ञाग्नि को आहुति देकर सबको सत्कार करना चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्र प्रथमा ऋक् पूर्वार्चिके ८७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र यज्ञाग्निर्वर्ण्यते।
हे सखायः ! (वाजयन्तः) बलम् आरोग्यम् आध्यात्मिकमैश्वर्यं च कायमानाः (वः) यूयम् (विशः विशः) मनुष्यस्य मनुष्यस्य (अतिथिम्) अतिथिवत् सत्करणीयम्, (पुरुप्रियम्) बहुप्रीणयितारम् (वः) युष्माकम् (दुर्यम्) गृहवत् शरणभूतम् (अग्निम्) यज्ञाग्निं प्रति, (वचः) वचनं प्रेरयतेति शेषः। अहमपि (शूषस्य) बलिनो ज्ञानवन्तः परमेश्वरस्य (मन्मभिः) वेदमन्त्रैः, यज्ञाग्निम् (स्तुषे) स्तौमि ॥१॥
गृहागतोऽतिथिरिव यज्ञाग्निराहुतिप्रदानेन सर्वैः सत्करणीयः ॥१॥