वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वं꣡ वरु꣢꣯ण उ꣣त꣢ मि꣣त्रो꣡ अ꣢ग्ने꣣ त्वां꣡ व꣢र्धन्ति म꣣ति꣢भि꣣र्व꣡सि꣢ष्ठाः । त्वे꣡ वसु꣢꣯ सुषण꣣ना꣡नि꣢ सन्तु यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१३०६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१३०६॥

मन्त्र उच्चारण
पद पाठ

त्वम् । व꣡रु꣢꣯णः । उ꣣त꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣ग्ने । त्वा꣢म् । व꣣र्धन्ति । मति꣡भिः꣢ । व꣡सि꣢꣯ष्ठाः । त्वे꣢꣯ । इ꣢ति । व꣡सु꣢꣯ । सु꣣षणना꣡नि꣢ । सु꣣ । सनना꣡नि꣢ । स꣣न्तु । यूय꣢म् । पा꣣त । स्वस्ति꣡भिः꣢ । सु꣣ । अस्ति꣡भिः꣢ । स꣡दा꣢꣯ । नः ॥१३०६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1306 | (कौथोम) 5 » 2 » 9 » 3 | (रानायाणीय) 10 » 8 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की स्तुति करते हुए उससे प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक परमात्मन् ! (त्वम्) आप (वरुणः) पापों के निवारक (उत) और (मित्रः) विपत्ति से बचानेवाले मित्र हो। (वसिष्ठाः) अतिशय विद्या के ऐश्वर्य से युक्त विद्वान् उपासक लोग (मतिभिः) स्तुतियों से (त्वाम्) आपको (वर्धन्ति) बढ़ाते हैं, अर्थात् जन-जन में प्रसारित करते हैं। (त्वे) आपमें विद्यमान (वसु) ऐश्वर्य (सुषणनानि) सुप्राप्य (सन्तु) होवें। (यूयम्) आप (स्वस्तिभिः) योग-क्षेमों द्वारा (सदा) हमेशा (नः) हमारी (पात) रक्षा करते रहो ॥३॥

भावार्थभाषाः -

जो कुछ भी ऐश्वर्य हमारे हाथ में है, वह सब परमात्मा द्वारा प्रदत्त ही है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं स्तुवन् तं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक परमात्मन् ! (त्वम्, वरुणः) पापानां निवारकः (उत) अपि च (मित्रः) मरणात् त्राता सुहृत् असि। (वसिष्ठाः) अतिशयेन विद्यैश्वर्ययुक्ताः विद्वांसः उपासकाः (मतिभिः) स्तुतिभिः (त्वाम्) परमात्मानम् (वर्धन्ति) वर्धयन्ति, जने जने प्रसारयन्तीत्यर्थः। (त्वे) त्वयि विद्यमानानि (वसु) वसूनि ऐश्वर्याणि (सुषणनानि) सुसम्भजनानि (सन्तु) भवन्तु। (यूयम्) [आदरार्थम् बहुवचनम्।] (स्वस्तिभिः) योगक्षेमैः (सदा) नित्यम् (नः) अस्मान् (पात) रक्षत ॥३॥२

भावार्थभाषाः -

यत्किञ्चिदप्यैश्वर्यमस्मद्धस्तगतं विद्यते तत्सर्वं परमात्मप्रदत्तमेव ॥३॥