वांछित मन्त्र चुनें

प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते । ह॒विर्ह॒विष्षु॒ वन्द्य॑: ॥

अंग्रेज़ी लिप्यंतरण

pra dhārā madhvo agriyo mahīr apo vi gāhate | havir haviṣṣu vandyaḥ ||

पद पाठ

प्र । धारा॑ । मध्वः॑ । अ॒ग्रि॒यः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ । ह॒विः । ह॒विष्षु॑ । वन्द्यः॑ ॥ ९.७.२

ऋग्वेद » मण्डल:9» सूक्त:7» मन्त्र:2 | अष्टक:6» अध्याय:7» वर्ग:28» मन्त्र:2 | मण्डल:9» अनुवाक:1» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (हविष्षु) सर्वेष्वादेयपदार्थेषु (हविः) सर्वाधिकग्राह्योऽस्ति (वन्द्यः) विश्ववन्दनीयः स एव (अग्रियः) अग्रणीः परमात्मा (मध्वः धाराः) मधुरधाराभिः (महीः) पृथिवीम् (अपः) द्युलोकश्च (विगाहते) अवगाहते ॥२॥