Go To Mantra

प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते । ह॒विर्ह॒विष्षु॒ वन्द्य॑: ॥

English Transliteration

pra dhārā madhvo agriyo mahīr apo vi gāhate | havir haviṣṣu vandyaḥ ||

Pad Path

प्र । धारा॑ । मध्वः॑ । अ॒ग्रि॒यः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ । ह॒विः । ह॒विष्षु॑ । वन्द्यः॑ ॥ ९.७.२

Rigveda » Mandal:9» Sukta:7» Mantra:2 | Ashtak:6» Adhyay:7» Varga:28» Mantra:2 | Mandal:9» Anuvak:1» Mantra:2


Reads times

ARYAMUNI

Word-Meaning: - (हविष्षु) सर्वेष्वादेयपदार्थेषु (हविः) सर्वाधिकग्राह्योऽस्ति (वन्द्यः) विश्ववन्दनीयः स एव (अग्रियः) अग्रणीः परमात्मा (मध्वः धाराः) मधुरधाराभिः (महीः) पृथिवीम् (अपः) द्युलोकश्च (विगाहते) अवगाहते ॥२॥