वांछित मन्त्र चुनें

त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ suṣvāṇo adribhir abhy arṣa kanikradat | dyumantaṁ śuṣmam uttamam ||

पद पाठ

त्वम् । सु॒स्वा॒नः । अद्रि॑ऽभिः । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥ ९.६७.३

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:3 | अष्टक:7» अध्याय:2» वर्ग:13» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (त्वं) आप (कनिक्रदत्) वेदरूपी वाणियों द्वारा (सुष्वाणः) स्तूयमान हैं। (द्युमन्तं) दीप्तिवाले (उत्तमं) सबसे अच्छे (शुष्मं) बल को (अद्रिभिः) अपने आदरणीय शक्तियों से (अभ्यर्ष) प्राप्त कराइये ॥३॥
भावार्थभाषाः - परमात्मा वेदवाणियों के द्वारा ज्ञानरूपी बल को प्रदान करता है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (त्वम्) भवान् (कनिक्रदत्) वेदवाणीभिः (सुष्वाणः) स्तूयमानोऽस्ति। एवम्भूतस्त्वं (द्युमन्तम्) दीप्तिमत् (उत्तमम्)   सर्वोत्कृष्टं (शुष्मम्) बलं (अद्रिभिः) स्वकीयादरणीयशक्तिभिः (अभ्यर्ष) प्रापय ॥३॥