वांछित मन्त्र चुनें

य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः । स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं तत॑: ॥

अंग्रेज़ी लिप्यंतरण

ya indra sasty avrato nuṣvāpam adevayuḥ | svaiḥ ṣa evair mumurat poṣyaṁ rayiṁ sanutar dhehi taṁ tataḥ ||

पद पाठ

यः । इ॒न्द्र॒ । सस्ति॑ । अ॒व्र॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः । स्वैः । सः । एवैः॑ । मु॒मु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः॑ ॥ ८.९७.३

ऋग्वेद » मण्डल:8» सूक्त:97» मन्त्र:3 | अष्टक:6» अध्याय:6» वर्ग:36» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:3