वांछित मन्त्र चुनें

वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒: पृत॑ना जयासि ॥

अंग्रेज़ी लिप्यंतरण

vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ | marudbhir indra sakhyaṁ te astv athemā viśvāḥ pṛtanā jayāsi ||

पद पाठ

वृ॒त्रस्य॑ । त्वा॒ । श्व॒सथा॑त् । ईष॑माणाः । विश्वे॑ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा॑यः । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒सि॒ ॥ ८.९६.७

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:7 | अष्टक:6» अध्याय:6» वर्ग:33» मन्त्र:2 | मण्डल:8» अनुवाक:10» मन्त्र:7