वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नोधा छन्द: पङ्क्तिः स्वर: पञ्चमः

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् । क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥

अंग्रेज़ी लिप्यंतरण

dyukṣaṁ sudānuṁ taviṣībhir āvṛtaṁ giriṁ na purubhojasam | kṣumantaṁ vājaṁ śatinaṁ sahasriṇam makṣū gomantam īmahe ||

पद पाठ

द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् । क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥ ८.८८.२

ऋग्वेद » मण्डल:8» सूक्त:88» मन्त्र:2 | अष्टक:6» अध्याय:6» वर्ग:11» मन्त्र:2 | मण्डल:8» अनुवाक:9» मन्त्र:2