वांछित मन्त्र चुनें

यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥

अंग्रेज़ी लिप्यंतरण

yasmai tvaṁ vaso dānāya śikṣasi sa rāyas poṣam aśnute | taṁ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe ||

पद पाठ

यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । शिक्ष॑सि । सः । रा॒यः । पोष॑म् । अ॒श्नु॒ते॒ । तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥ ८.५१.६

ऋग्वेद » मण्डल:8» सूक्त:51» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:19» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:6