वांछित मन्त्र चुनें

दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥

अंग्रेज़ी लिप्यंतरण

devīṁ vācam ajanayanta devās tāṁ viśvarūpāḥ paśavo vadanti | sā no mandreṣam ūrjaṁ duhānā dhenur vāg asmān upa suṣṭutaitu ||

पद पाठ

दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ । सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॒ता । ए॒तु॒ ॥ ८.१००.११

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:11 | अष्टक:6» अध्याय:7» वर्ग:5» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:11