उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चर॑न्त्य॒जरा॑ इधा॒नाः। अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥३॥
ud yasya te navajātasya vṛṣṇo gne caranty ajarā idhānāḥ | acchā dyām aruṣo dhūma eti saṁ dūto agna īyase hi devān ||
उत्। यस्य॑। ते॒। नव॑ऽजातस्य। वृष्णः॑। अग्ने॑। चर॑न्ति। अ॒जराः॑। इ॒धा॒नाः। अच्छ॑। द्याम्। अ॒रु॒षः। धू॒मः। ए॒ति॒। सम्। दू॒तः। अ॒ग्ने॒। ईय॑से। हि। दे॒वान् ॥३॥
स्वामी दयानन्द सरस्वती
फिर विद्वान् बिजुली से क्या सिद्ध करें, इस विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनर्विद्वान् विद्युता किं कुर्यादित्याह ॥
हे अग्ने ! यस्य नवजातस्य वृष्णस्ते यथाऽग्न इधाना अजरा अग्नय उच्चरन्त्यरुषो द्यां प्राप्य यस्य धूम अच्छैति यो दूत इव देवानीयते यदा तं हि त्वं समीयसे तदा कार्यं कर्त्तुं शक्नोषि ॥३॥