स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि। दे॒वानां॑ दू॒त उ॒क्थ्यः॑ ॥६॥
samidhānaḥ sahasrajid agne dharmāṇi puṣyasi | devānāṁ dūta ukthyaḥ ||
स॒म्ऽइ॒धा॒नः। स॒ह॒स्र॒ऽजि॒त्। अग्ने॑। धर्मा॑णि। पु॒ष्य॒सि॒। दे॒वाना॑म्। दू॒तः। उ॒क्थ्यः॑ ॥६॥
स्वामी दयानन्द सरस्वती
फिर अग्निसादृश्य से विद्वद्विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनरग्निसादृश्येन विद्वद्विषयमाह ॥
हे अग्ने ! यथा समिधानः पावको देवानां दूतोऽस्ति तथा सहस्रजिदुक्थ्यो देवानां समिधानो दूतः सन् यतो धर्म्माणि पुष्यसि तस्मात् सत्कर्तव्योऽसि ॥६॥