उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम्। ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥२॥
uta vājinam puruniṣṣidhvānaṁ dadhikrām u dadathur viśvakṛṣṭim | ṛjipyaṁ śyenam pruṣitapsum āśuṁ carkṛtyam aryo nṛpatiṁ na śūram ||
उ॒त। वा॒जिन॑म्। पु॒रु॒निः॒ऽसिध्वा॑नम्। द॒धि॒ऽक्राम्। ऊ॒म् इति॑। द॒द॒थुः॒। वि॒श्वऽकृ॑ष्टिम्। ऋ॒जि॒प्यम्। श्ये॒नम्। प्रु॒षि॒तऽप्सु॑म्। आ॒शुम्। च॒र्कृत्य॑म्। अ॒र्यः। नृ॒ऽपति॑म्। न। शूर॑म् ॥२॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे सभासेनेशौ ! युवां यस्मादर्यः शूरं नृपतिं न वाजिनं पुरुनिष्षिध्वानं दधिक्रां विश्वकृष्टिमुत वाजिनमु ऋजिप्यं प्रुषितप्सुं श्येनमिव चर्कृत्यमाशुं ददथुः स विजयाय प्रभवेत् ॥२॥