क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः। दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥४॥
kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṁ dīdhyānaḥ | devo bhuvan navedā ma ṛtānāṁ namo jagṛbhvām̐ abhi yaj jujoṣat ||
क॒था। स॒ऽबाधः॑। श॒श॒मा॒नः। अ॒स्य॒। नश॑त्। अ॒भि। द्रवि॑णम्। दीध्या॑नः। दे॒वः। भु॒व॒त्। नवे॑दाः। मे॒। ऋ॒ताना॑म्। नमः॑। ज॒गृ॒भ्वान्। अ॒भि। यत्। जुजो॑षत् ॥४॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! अस्य सबाधः कथा नशद् द्रविणमभि दीध्यानः शशमानो देवः कथा भुवन्नवेदा म ऋतानां नमो जगृभ्वान् यद्यः स कथाऽभि जुजोषत् ॥४॥