वांछित मन्त्र चुनें

ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑ण॒: परि॑ज्मा । कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुत॑: पू॒षणो॒ भग॑: ॥

अंग्रेज़ी लिप्यंतरण

te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā | kad rudro nṛṇāṁ stuto marutaḥ pūṣaṇo bhagaḥ ||

पद पाठ

ते । घ॒ । राजा॑नः । अ॒मृत॑स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः॑ । पू॒षणः॑ । भगः॑ ॥ १०.९३.४

ऋग्वेद » मण्डल:10» सूक्त:93» मन्त्र:4 | अष्टक:8» अध्याय:4» वर्ग:26» मन्त्र:4 | मण्डल:10» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते घ मन्द्राः) वे स्तुति करनेवाले (अमृतस्य राजानः) अनश्वर सुख ज्ञान के स्वामी होते हैं, कौन? सो कहते हैं-(अर्यमा) ज्ञानदाता (मित्रः) सत्कर्म में प्रेरक (वरुणः) दुःखनिवारक (परिज्मा) परिव्राट् संन्यासी (नृणां कत् स्तुतः रुद्रः) मनुष्यों में प्रशंसित कोई वक्ता (पूषणः) पोषण करनेवाले (मरुतः) विद्वान् जन (भगः) सौभाग्यवान् ॥४॥
भावार्थभाषाः - संसार में जो ज्ञानदाता प्रेरक दुःखनिवारक संन्यासी, वक्ता, पोषक, विद्वान्, सौभाग्यवान् जन परमात्मा की स्तुति कर अनश्वर सुखज्ञान के स्वामी बनते हैं, वे धन्य हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते घ मन्द्राः) ते खलु स्तोतारः (अमृतस्य राजानः) अनश्वरसुखज्ञानस्य स्वामिनो भवन्ति, के ते-इत्युच्यते (अर्यमा) ज्ञानदाता (मित्रः) सत्कर्मणि प्रेरकः (वरुणः) दुःखनिवारकः (परिज्मा) परिव्राट् (नृणां कत्-स्तुतः-रुद्रः) मनुष्याणां मध्ये प्रशंसितः कश्चित् वक्ता (पूषणः-मरुतः-भगः) पोषयितारो विद्वांसो भगवन्तः “भजतीति भग् क्विपि बहुवचने भगः” ॥४॥