वांछित मन्त्र चुनें

विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः । विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञिया॑: ॥

अंग्रेज़ी लिप्यंतरण

viśveṣām irajyavo devānāṁ vār mahaḥ | viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ ||

पद पाठ

विश्वे॑षाम् । इ॒र॒ज्य॒वः॒ । दे॒वाना॑म् । वाः । म॒हः । विश्वे॑ । हि । वि॒श्वऽम॑हसः । विश्वे॑ । य॒ज्ञेषु॑ । य॒ज्ञियाः॑ ॥ १०.९३.३

ऋग्वेद » मण्डल:10» सूक्त:93» मन्त्र:3 | अष्टक:8» अध्याय:4» वर्ग:26» मन्त्र:3 | मण्डल:10» अनुवाक:8» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वेषाम्) सबके (इरज्यवः) स्वामिभूत दिव्य जनो ! या दिव्यपदार्थो ! (देवानाम्) तुम देवों का (महः-वाः) महान् वरने योग्य ज्ञान है (विश्वे हि) सब ही (विश्वमहसः) सब महत्त्ववाले (यज्ञेषु यज्ञियाः) यज्ञप्रसङ्गों में सत्करणीय हो ॥३॥
भावार्थभाषाः - ऊँचे विद्वानों और दिव्य पदार्थों में बहुत गुण होते हैं, उनसे लाभ लेना चाहिये ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वेषाम्-इरज्यवः) सर्वेषां खल्वीश्वराः स्थ “इरज्यति ऐश्वर्यकर्मा” [निघ० ३।२१] (देवानां महः-वाः) युष्माकं देवानां महद् वरणीयं ज्ञानमस्ति (विश्वे हि विश्वमहसः) सर्वे हि सर्वमहत्त्ववन्तः (यज्ञेषु यज्ञियाः) यज्ञप्रसङ्गेषु सत्करणीयाः स्थ ॥३॥