जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नर॑: । वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मय॒: पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥
jīvaṁ rudanti vi mayante adhvare dīrghām anu prasitiṁ dīdhiyur naraḥ | vāmam pitṛbhyo ya idaṁ samerire mayaḥ patibhyo janayaḥ pariṣvaje ||
जी॒वम् । रु॒द॒न्ति॒ । वि । म॒य॒न्ते॒ । अ॒ध्व॒रे । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒धि॒युः॒ । नरः॑ । वा॒मम् । पि॒तृऽभ्यः॑ । ये । इ॒दम् । स॒म्ऽए॒रि॒रे । मयः॑ । पति॑ऽभ्यः । जन॑यः । प॒रि॒ऽस्वजे॑ ॥ १०.४०.१०