वांछित मन्त्र चुनें

अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः । अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥

अंग्रेज़ी लिप्यंतरण

aham asmi sapatnahendra ivāriṣṭo akṣataḥ | adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ ||

पद पाठ

अ॒हम् । अ॒स्मि॒ । स॒प॒त्न॒ऽहा । इन्द्रः॑ऽइव । अरि॑ष्टः । अक्ष॑तः । अ॒धः । स॒ऽपत्नाः॑ । मे॒ । प॒दोः । इ॒मे । सर्वे॑ । अ॒भिऽस्थि॑ताः ॥ १०.१६६.२

ऋग्वेद » मण्डल:10» सूक्त:166» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:24» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं सपत्नहा) मैं शत्रुओं का हननकर्ता (इन्द्रः-इव) राजा (अरिष्टः) अहिंसित तथा (अक्षतः) क्षयरहित (अस्मि) मैं हूँ (इमे सर्वे) ये सब (अभिष्ठिताः) सम्मुख स्थित (सपत्नाः) विरोधी शत्रुजन (मे पदोः-अधः) मेरे पैरों के नीचे होवें ॥२॥
भावार्थभाषाः - राजा शत्रुओं का नाशक, अहिंसित और क्षयरहित हुआ सब शत्रुओं को अपने अधीन करनेवाला होना चाहिये ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं सपत्नहा) अहं शत्रुहन्ता (इन्द्रः-इव) राजेव (अरिष्टः-अक्षतः) अहिंसितः क्षतरहितश्च (अस्मि) भवेयम् ‘लिङर्थे लेट्’ (इमे सर्वे-अभिष्ठिताः सपत्नाः) एते सर्वे सम्मुखं स्थिता विरोधिनः (मे पदोः-अधः) मम पादयोः “पद्दन्नो…” [अष्टा० ६।१।६१] इति पादस्य पदादेशः” नीचैर्भवेयुः ॥२॥