Go To Mantra

अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः । अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥

English Transliteration

aham asmi sapatnahendra ivāriṣṭo akṣataḥ | adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ ||

Pad Path

अ॒हम् । अ॒स्मि॒ । स॒प॒त्न॒ऽहा । इन्द्रः॑ऽइव । अरि॑ष्टः । अक्ष॑तः । अ॒धः । स॒ऽपत्नाः॑ । मे॒ । प॒दोः । इ॒मे । सर्वे॑ । अ॒भिऽस्थि॑ताः ॥ १०.१६६.२

Rigveda » Mandal:10» Sukta:166» Mantra:2 | Ashtak:8» Adhyay:8» Varga:24» Mantra:2 | Mandal:10» Anuvak:12» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (अहं सपत्नहा) मैं शत्रुओं का हननकर्ता (इन्द्रः-इव) राजा (अरिष्टः) अहिंसित तथा (अक्षतः) क्षयरहित (अस्मि) मैं हूँ (इमे सर्वे) ये सब (अभिष्ठिताः) सम्मुख स्थित (सपत्नाः) विरोधी शत्रुजन (मे पदोः-अधः) मेरे पैरों के नीचे होवें ॥२॥
Connotation: - राजा शत्रुओं का नाशक, अहिंसित और क्षयरहित हुआ सब शत्रुओं को अपने अधीन करनेवाला होना चाहिये ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अहं सपत्नहा) अहं शत्रुहन्ता (इन्द्रः-इव) राजेव (अरिष्टः-अक्षतः) अहिंसितः क्षतरहितश्च (अस्मि) भवेयम् ‘लिङर्थे लेट्’ (इमे सर्वे-अभिष्ठिताः सपत्नाः) एते सर्वे सम्मुखं स्थिता विरोधिनः (मे पदोः-अधः) मम पादयोः “पद्दन्नो…” [अष्टा० ६।१।६१] इति पादस्य पदादेशः” नीचैर्भवेयुः ॥२॥