वांछित मन्त्र चुनें

ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यज॑: । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

अंग्रेज़ी लिप्यंतरण

ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ | ye vā sahasradakṣiṇās tām̐ś cid evāpi gacchatāt ||

पद पाठ

ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ । ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥ १०.१५४.३

ऋग्वेद » मण्डल:10» सूक्त:154» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:12» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये शूरासः) जो शूरवीर हैं (ये तनूत्यजः) जो शरीरत्यागी हैं (प्रधनेषु युध्यन्ते) संग्रामों में युद्ध करते हैं, वे क्षत्रिय (ये वा) और जो (सहस्रदक्षिणाः) बहुत दक्षिणा देनेवाले-गौदक्षिणा देनेवाले वैश्य हैं, (तान् चित्-एव) उनको भी (अपि गच्छतात्) प्राप्त हो ॥३॥
भावार्थभाषाः - ब्रह्मचारी चाहे तो युद्ध में लड़नेवाले अपने को राष्ट्र के लिए समर्पित करनेवाले क्षत्रियों को प्राप्त हो या बहुत दक्षिणा देनेवाले वैश्यों को प्राप्त हो ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये शूरासः) ये शूराः क्षत्रियाः (ये तनूत्यजः) ये शरीर-त्यागिनः (प्रधनेषु युध्यन्ते) संग्रामेषु प्रधने संग्रामनाम [निघ० २।१७] युद्धं कुर्वन्ति (ये वा) ये च (सहस्रदक्षिणाः) गोधनदक्षिणादातारो वैश्याः (तान् चित्-एव) तानपि-हि (अपि गच्छतात्) क्षत्रियत्वं वैश्यत्वञ्च ग्रहीतुं खलु गच्छ-प्राप्तो भव ॥३॥