पू॒र्वाभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम्। अवो॑भिश्चर्षणी॒नाम् ॥
pūrvībhir hi dadāśima śaradbhir maruto vayam | avobhiś carṣaṇīnām ||
पू॒र्वीभिः॑। हि। द॒दा॒शि॒म। श॒रत्ऽभिः॑। म॒रु॒तः॒। व॒यम्। अवः॑ऽभिः। च॒र्ष॒णी॒नाम् ॥
स्वामी दयानन्द सरस्वती
सब हम मिल के क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
स्वामी दयानन्द सरस्वती
सर्वे वयं मिलित्वा किं कुर्य्यामेत्युपदिश्यते ॥
हे मरुतो ! यथा यूयं पूर्वीभिः शरद्भिः सर्वैर्ऋतुभिरवोभिश्चर्षणीनां सुखाय प्रवर्त्तध्वम्। तथा वयमपि हि खलु युष्मदादिभ्यः सुखानि ददाशिम ॥ ६ ॥