विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि । सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥
viśvasya hi prāṇanaṁ jīvanaṁ tve vi yad ucchasi sūnari | sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam ||
विश्व॑स्य । हि । प्राण॑नम् । जीव॑नम् । त्वे इति॑ । वि । यत् । उ॒च्छसि॑ । सू॒न॒रि॒ । सा । नः॒ । रथे॑न । बृ॒ह॒ता । वि॒भा॒व॒रि॒ । श्रु॒धि । चि॒त्र॒म॒घे॒ । हव॑म्॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी होकर किससे क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(विश्वस्य) सर्वस्य (हि) खलु (प्राणनम्) प्राणधारणम् (जीवनम्) जीविकाप्रापणम् (त्वे) त्वयि। अत्र सुपांसुलुग् इति शे आदेशः। (वि) विविधार्थे (यत्) या (उच्छसि) (सूनरि) सुष्ठुतया व्यवहारनेत्री (सा) (नः) अस्मभ्यम् (रथेन) रमणीयेन स्वरूपेण विमानादिना वा (बृहता) महता (विभावरि) या विविधतया भाति प्रकाशयति तत्सम्बुद्धौ (श्रुधि) श्रृणु (चित्रामघे) चित्राण्यद्भुतानि मघानि धनानि यस्यास्तत्संबुद्धौ। अत्रान्येषामपि० इति पूर्वपदस्य दीर्घः। (हवम्) श्रोतव्यं श्रावयितव्यं वा शब्दसमूहम् ॥१०॥
पुनः सा कीदृशेन किं कुर्य्यादित्युपदिश्यते।