श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः । तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥
śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ | tān rohidaśva girvaṇas trayastriṁśatam ā vaha ||
श्रु॒ष्टी॒वानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विचे॑तसः । तान् । रो॒हि॒त्अ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑त्रिंशतम् । आ । व॒ह॒॥
स्वामी दयानन्द सरस्वती
फिर वह क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(श्रुष्टीवानः) ये श्रुष्टी शीघ्रं वनन्ति संभजन्ति ते। श्रुष्टी इति पदना०। निघं० ४।३। (हि) खलु (दाशुषे) दानशीलाय पुरुषार्थिन जनाय (देवाः) दिव्यगुणा विद्वांसः (अग्ने) विद्वन् (विचेतसः) विविधं चेतः शास्त्रोक्तबोधयुक्त्ता प्रज्ञा येषां ते (तान्) देवान् (रोहिदश्व) रोहितोऽश्वा वेगादयो गुणा यस्य तत्सम्बुद्धौ (गिर्वणः) यो गीर्भिर्वन्यते सम्भज्यते तत्सम्बुद्धौ (त्रयस्त्रिंशतम्) एतत्संख्याकान् पृथिव्यादीन् (आ) आभिमुख्ये (वह) प्राप्नुहि ॥२॥
पुनः स किं कुर्य्यादित्युपदिश्यते।