हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥
hiraṇyahasto asuraḥ sunīthaḥ sumṛḻīkaḥ svavām̐ yātv arvāṅ | apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṁ gṛṇānaḥ ||
हिर॑ण्यहस्तः । असु॑रः । सु॒नी॒थः । सु॒मृ॒ळी॒कः । स्ववा॑न् । या॒तु॒ । अ॒र्वाङ् । अ॒प॒सेध॑न् । र॒क्षसः॑ । या॒तु॒धाना॑न् । अस्था॑त् । दे॒वः । प्र॑तिदो॒षम् । गृ॒णा॒नः॥
स्वामी दयानन्द सरस्वती
अब अगले मंत्र में वायु के गुणों का उपदेश किया है।
स्वामी दयानन्द सरस्वती
(हिरण्यहस्तः) हिरण्यानि सर्वतो गमनानि हस्ता इव यस्य सः। अत्र गत्यर्थाद्धर्य्य धातोरौणादिकः कन्यन् प्रत्ययः। (असुरः) असून् प्राणान् राति ददात्यविद्यमानरूपगुणो वा सोऽसुरो वायुः। आतोनुपसर्गेकः। अ० ३।२।३। इत्यसूपपदाद्राधातोः कः। (सुनीथः) शोभनं नीथो नयनं प्रापणं यस्य सः (सुमृडीकः) यः शोभनेन भृडयति सुखयति सः। मृडः कीकच् कङ्कणौ। उ० ४।२५।# इति कीकच्। (स्ववान्) स्वे प्रशस्ताः स्पर्शादयो गुणा विद्यन्ते यस्मिन् सः। अत्र प्रशंसार्थे मतुप्। (यातु) प्राप्नोति प्राप्नोतु वा (अर्वाङ्) अर्वतः स्विकीयानध ऊर्ध्वतिर्यग्गमनाख्यवेगानंचति प्राप्नोतीति। अत्र ऋत्विग्दधृक्०* इति क्विन्। क्विन्प्रत्यस्यकुः¤ इति कवर्गादेशः। (अपसेवन्) निवारन् सन् (रक्षसः) चोरादीन् दुष्टकर्मकर्तॄन्। रक्षो रक्षयितव्यमस्मात्। निरु० ४०¶।१८। (यातुधानान्) यातवो यातनाः पीड़ा धीयन्ते येषु तान् दस्यून् (अस्थात्) स्थितवानस्ति (देवः) सर्वव्यवहारसाधकः (प्रतिदोषम्) रात्रिं रात्रिं प्रति। अत्र रात्रेरुपलक्षणत्वाद्दिवसस्यापि ग्रहणमस्ति प्रतिसमयामित्यर्थः। दोषति रात्रिनामसु पठितम्। निघं० १।७। (गृणानः) स्वगुणैः स्तोतुमर्हः ॥१०॥ #[वै० यं० मुद्रित द्वितीयावृतौ ४।२४। एषा संख्या वर्त्तते। सं० ] *[अ० ३।२।५९।] ¤[अ० ८।२।६२।] ¶[नि० ४।१८।]
अथ वायुगुणा उपदिश्यते।