स वह्नि॑: पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑। धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥
sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā | dhenuṁ ca pṛśniṁ vṛṣabhaṁ suretasaṁ viśvāhā śukram payo asya dukṣata ||
सः। वह्निः॑। पु॒त्रः। पि॒त्रोः। प॒वित्र॑ऽवान्। पु॒नाति॑। धीरः॑। भुव॑नानि। मा॒यया॑। धे॒नुम्। च॒। पृश्नि॑म्। वृ॒ष॒भम्। सु॒ऽरेत॑सम्। वि॒श्वाहा॑। शु॒क्रम्। पयः॑। अ॒स्य॒। धु॒क्ष॒त॒ ॥ १.१६०.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मनुष्या पवित्रवान् पित्रोः पुत्र इव वर्त्तमानः स वह्निर्भुवनानि पुनाति। यो धेनुं सुरेतसं वृषभं पृश्निं शुक्रम्पयश्च विश्वाहा पुनाति। यं धीरो मायया जानात्यस्य सकाशादभीष्टसिद्धिं यूयं दुक्षत ॥ ३ ॥