श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म्। श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥
śataṁ rājño nādhamānasya niṣkāñ chatam aśvān prayatān sadya ādam | śataṁ kakṣīvām̐ asurasya gonāṁ divi śravo jaram ā tatāna ||
श॒तम्। राज्ञः॑। नाध॑मानस्य। नि॒ष्कान्। श॒तम्। अश्वा॑न्। प्रऽय॑तान्। स॒द्यः। आद॑म्। श॒तम्। क॒क्षीवा॑न्। असु॑रस्य। गोना॑म्। दि॒वि। श्रवः॑। अ॒जर॑म्। आ। त॒ता॒न॒ ॥ १.१२६.२
स्वामी दयानन्द सरस्वती
कौन इस संसार में यश का विस्तार करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ।
स्वामी दयानन्द सरस्वती
केऽत्र यशो विस्तारयन्तीत्याह ।
यः कक्षीवान् विद्वानसुरस्येव नाधमानस्य राज्ञः शतं निष्कान् प्रयतान् शतमश्वान् दिव्यजरं गोनां शतमिव श्रव आततान तमहं सद्य आदम् ॥ २ ॥