स꣡ मा꣢मृजे ति꣣रो꣡ अण्वा꣢꣯नि मे꣣꣬ष्यो꣢꣯ मी꣣ढ्वा꣢꣫न्त्सप्ति꣣र्न꣡ वा꣢ज꣣युः꣢ । अ꣣नु꣢माद्यः꣣ प꣡व꣢मानो मनी꣣षि꣢भिः꣣ सो꣢मो꣣ वि꣡प्रे꣢भि꣣रृ꣡क्व꣢भिः ॥१६९०॥
(If you are unable to read the above font properly, please upgrade your operating system.)स मामृजे तिरो अण्वानि मेष्यो मीढ्वान्त्सप्तिर्न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥१६९०॥
सः꣢ । मा꣣मृजे । तिरः꣢ । अ꣡ण्वा꣢꣯नि । मे꣣ष्यः꣢ । मी꣣ढ्वा꣢न् । स꣡प्तिः꣢꣯ । न । वा꣣जयुः꣢ । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । प꣡व꣢꣯मानः । म꣣नीषि꣡भिः꣢ । सो꣡मः꣢꣯ । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । ऋ꣡क्व꣢꣯भिः ॥१६९०॥