स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
smatpuraṁdhir na ā gahi viśvatodhīr na ūtaye | divo amuṣya śāsato divaṁ yaya divāvaso ||
स्मत्ऽपु॑रन्धिः । नः॒ । आ । ग॒हि॒ । वि॒श्वतः॑ऽधीः । नः॒ । ऊ॒तये॑ । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥ ८.३४.६