आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
ā tvā kaṇvā ihāvase havante vājasātaye | divo amuṣya śāsato divaṁ yaya divāvaso ||
आ । त्वा॒ । कण्वाः॑ । इ॒ह । अव॑से । हव॑न्ते । वाज॑ऽसातये । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥ ८.३४.४