व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑: । वाजे॑ चि॒त्रं ह॑वामहे ॥
vayam u tvām apūrvya sthūraṁ na kac cid bharanto vasyavaḥ | vāje citraṁ havāmahe ||
व॒यम् । ऊँ॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ । वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥ ८.२१.१
SHIV SHANKAR SHARMA
पुनः परमदेव की स्तुति आरम्भ करते हैं।
ARYAMUNI
अब इस सूक्त में उन योद्धाओं के स्वामी का माहात्म्य वर्णन करते हुए उसकी सत्क्रिया करना कथन करते हैं।
HARISHARAN SIDDHANTALANKAR
'स्थूरं चित्रं' हवामहे
SHIV SHANKAR SHARMA
पुनः परमदेवस्तुतिमारभते।
ARYAMUNI
सम्प्रति योद्धृस्वामिनः माहात्म्यवर्णनपूर्वकसत्क्रिया वर्ण्यते।
