व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑: । वाजे॑ चि॒त्रं ह॑वामहे ॥
vayam u tvām apūrvya sthūraṁ na kac cid bharanto vasyavaḥ | vāje citraṁ havāmahe ||
व॒यम् । ऊँ॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ । वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥ ८.२१.१
शिव शंकर शर्मा
पुनः परमदेव की स्तुति आरम्भ करते हैं।
आर्यमुनि
अब इस सूक्त में उन योद्धाओं के स्वामी का माहात्म्य वर्णन करते हुए उसकी सत्क्रिया करना कथन करते हैं।
शिव शंकर शर्मा
पुनः परमदेवस्तुतिमारभते।
आर्यमुनि
सम्प्रति योद्धृस्वामिनः माहात्म्यवर्णनपूर्वकसत्क्रिया वर्ण्यते।