Go To Mantra

अ॒ग्निर्ह॒ त्यं जर॑त॒: कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थम् । अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सम् ॥

English Transliteration

agnir ha tyaṁ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham | agnir atriṁ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam ||

Pad Path

अ॒ग्निः । ह॒ । त्यम् । जर॑तः । कर्ण॑म् । आ॒व॒ । अ॒ग्निः । अ॒त्ऽभ्यः । निः । अ॒द॒ह॒त् । जरू॑थम् । अ॒ग्निः । अत्रि॑म् । घ॒र्मे । उ॒रु॒ष्य॒त् । अ॒न्तः । अ॒ग्निः । नृ॒ऽमेध॑म् । प्र॒ऽजया॑ । अ॒सृ॒ज॒त् । सम् ॥ १०.८०.३

Rigveda » Mandal:10» Sukta:80» Mantra:3 | Ashtak:8» Adhyay:3» Varga:15» Mantra:3 | Mandal:10» Anuvak:6» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्निः) अग्रणेता परमात्मा (ह) निश्चय (जरतः) स्तुति करते हुए उपासक के (त्यं कर्णम्) उस स्तुति सुनते हुए कान की (आव) रक्षा करता है-अपनी स्तुति में स्थिर करता है (अग्निः) परमात्मा (जरूथम्) स्तुति करनेवाले को (अद्भ्यः) अमृत प्राणों के लिए, ‘अमृत प्राणों की प्राप्ति के लिए’ (निर्-अदहत्) देता है अथवा भौतिक अग्नि की भान्ति नहीं जलाता है (अग्निः) परमात्मा (अत्रिम्) स्तुति करनेवाले की वाणी को (धर्मे) अध्यात्मयज्ञ में (उरुष्यत्) रक्षित करता है (अग्निः) परमात्मा (नृमेधम्) प्रजा के संकल्प करनेवाले को (प्रजया) प्रजा से सन्तान से (सम्-असृजत्) संयुक्त करता है ॥३॥
Connotation: - परमात्मा अपनी स्तुति करनेवाले के स्तुति सुनते हुए कान की रक्षा करता है और उस की वाणी को सुरक्षित रखता है, संसार में उसे सन्तानवाला मोक्ष में अमृत प्राण प्रदान करता है ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्निः) अग्रणेता परमात्मा (ह) निश्चयेन (जरतः) स्तुवतः स्तुतिं कुर्वतः-उपासकस्य (त्यं कर्णम्) तं कर्णं स्तुतिशृण्वन्तं (आव) अवति रक्षति स्वस्तुतौ स्थापयति (अग्निः) परमात्मा (जरूथम्) गरूथं स्तोतारं (अद्भ्यः) अमृतेभ्यः प्राणेभ्यः “प्राणा वा आपः” [तै० ३।२।२] “अमृतो ह्यापः” [श० ३।९।४।१६] (निर्-अदहत्) निरयच्छत् प्रयच्छति ददाति “दह धातुरत्र दानार्थे” “मातिधक्-मास्मानतिहाय-दाः” [निरु० १।७] भौतिकाग्निरिव न दहति “निर् उपसर्गो निषेधे निराकरणे वर्तते” “निर् निषेधे” [अव्ययार्थनिबन्धनम्] यथा निःशुल्कः, निष्कामः “तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः” [योग० १।५१] अपितु तद्विपरीतम् “अद्भ्यो जलेभ्यः समर्पयति” (अग्निः) परमात्मा (अत्रिं धर्मे-उरुष्यत्) जरतः स्तुवतो वाचम् “वागत्रिः” [श० १४।५।२।२] यज्ञे ‘धर्मो यज्ञनाम” [निघ० ३।१७] रक्षति “उरुष्यति रक्षाकर्मा” [निरु० ५।२३] पुनः (अग्निः) परमात्मा (नृमेधं प्रजया सम्-असृजत) नृषु प्रजासु “प्रजा वै नरः” [ऐ० २।४] मेधा सङ्कल्पः कामो यस्य स नृमेधस्तं प्रजाकामं प्रजया पुत्रादिकया सह संयुक्तं करोति ॥३॥