उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु । अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ॥
uta tvaṁ sakhye sthirapītam āhur nainaṁ hinvanty api vājineṣu | adhenvā carati māyayaiṣa vācaṁ śuśruvām̐ aphalām apuṣpām ||
उ॒त । त्व॒म् । स॒ख्ये । स्थि॒रऽपी॑तम् । आहुः॑ । न । ए॒न॒म् । हि॒न्व॒न्ति॒ । अपि॑ । वाजि॑नेषु । अधे॑न्वा । च॒र॒ति॒ । मा॒यया॑ । ए॒षः । वाच॑म् । शु॒श्रु॒ऽवान् । अ॒फ॒लाम् । आ॒पु॒ष्पाम् ॥ १०.७१.५