Go To Mantra

सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥

English Transliteration

sūryaṁ cakṣur gacchatu vātam ātmā dyāṁ ca gaccha pṛthivīṁ ca dharmaṇā | apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ ||

Pad Path

सूर्य॑म् । चक्षुः॑ । ग॒च्छ॒तु॒ । वात॑म् । आ॒त्मा । द्याम् । च॒ । ग॒च्छ॒ । पृ॒थि॒वीम् । च॒ । धर्म॑णा । अ॒पः । वा॒ । ग॒च्छ॒ । यदि॑ । तत्र॑ । ते॒ । हि॒तम् । ओष॑धीषु । प्रति॑ । ति॒ष्ठ॒ । शरी॑रैः ॥ १०.१६.३

Rigveda » Mandal:10» Sukta:16» Mantra:3 | Ashtak:7» Adhyay:6» Varga:20» Mantra:3 | Mandal:10» Anuvak:1» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (चक्षुः सूर्यं गच्छतु-आत्मा वातं द्यां च पृथिवीं च धर्मणा गच्छ) नेत्रप्रकाश सूर्यप्रकाश को प्राप्त हो, जीवात्मा वायुमय अन्तरिक्ष को एवं पुनः प्रकाशयुक्त लोक को या पृथिवीलोक को अपने किये कर्म से प्राप्त हो (अपः-वा गच्छ यदि तत्र ते हितम्) जलमय लोक को जा, यदि तेरा वहाँ कर्मफल हो (शरीरैः-ओषधीषु प्रतितिष्ठ) शरीरधारणमात्र गुणों से ओषधियों में गमनाभावरूप स्थावरत्व जड़त्व को प्राप्त हो, यदि वहाँ तेरा कर्मफल हो ॥३॥
Connotation: - देहपात के अनन्तर देह तो अपने-अपने कारण पदार्थों में लीन हो जाता है और जीव स्वकर्मानुसार प्रकाशमय, जलमय, पृथिवीमय लोकों तथा वृक्षादि की जड़योनियों तक प्राप्त होता है ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (चक्षुः सूर्यं गच्छतु-आत्मा वातं द्यां च पृथिवीं च धर्मणा गच्छ) चक्षुः-नेत्रं नेत्रप्रकाशः सूर्यम्-सूर्यप्रकाशं गच्छतु प्राप्नोतु, जीवो वातं जीवाधारं वायुं वाय्वालयं यमालयमन्तरिक्षं प्राप्नोतु। ‘एष वाय्वालय एव यमालयः’ “यमेन वायुना” इति प्रामाण्यात्। द्युलोकं प्रकाशयुक्तलोकं वा पृथिवीलोकं वा धर्मणा-स्वकृतकर्मणा गच्छ (अपः-वा गच्छ यदि तत्र ते हितम्) जलमयं लोकं वा गच्छ यदि तत्र-ते-तव हितं पथ्यं कर्मफलं स्यात् (शरीरैः-ओषधीषु प्रतितिष्ठ) शरीरधारणमात्रधर्मैरोषधीषु प्रतितिष्ठ गमनाभावेन स्थिरत्वं जडत्वं प्राप्नुहि यदि तत्र ते कर्मफलं स्यात् ॥३॥