न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् । स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विष॑: ॥
na tam aṁho na duritaṁ devāso aṣṭa martyam | sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ ||
न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । देवा॑सः । अष्ट॑ । मर्त्य॑म् । स॒ऽजोष॑सः । यम् । अ॒र्य॒मा । मि॒त्रः । नय॑न्ति । वरु॑णः । अति॑ । द्विषः॑ ॥ १०.१२६.१
BRAHMAMUNI
इस सूक्त में अध्यापक आदि विद्वान् सूर्य आदि रक्षक सुखसाधक जीवनयात्रा के सहायक उनके यथार्थ सेवन से होते हैं इत्यादि विषय हैं।
HARISHARAN SIDDHANTALANKAR
न अंहः, न दुरितम्
BRAHMAMUNI
अत्र सूक्ते अध्यापकादयो विद्वांसः सूर्यादयश्च रक्षकाः सुखसम्पादका जीवनयात्रायाः परमसहायकाः सन्ति तेषां यथार्थानुष्ठानेनेत्यादयो विषयाः सन्ति।
